-
असतो मा सद्गमय, तमसो मा ज्योतिर्गमय, मृत्योर्माऽमृतं गमय। -बृह. १.३.२८
मुझे असत् से सत्, अन्धकार से प्रकाश, मृत्यु से अमृत की ओर ले चलो।
Lead me from unreal to real, from darkness to light and from death to immortality.-
अरालम् = वक्रम्
अरालं वृजिनं जिह्ममूर्मिमत्कुञ्चितं नतम्. आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि॥ इत्यमरः
प्रयोगः
अरालैः स्वाभाव्यादलिकलभसश्रीभिरलकैः
परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम् ।सौ. लहरी।
-
आशा (स्त्री) = दिशा
दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः। इत्यमरः
प्रयोगः
त्वत्भक्त्या तुष्टबुद्धे: सुखमिह चरतो विच्युताशस्य चाशा: - (नारायणीयम्)
-
पदार्थः
स्थविर (पुं) = वृद्धः
प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि॥
(अ.कोशः)
प्रयोगः
ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति ।
प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते।
(मनु - २.१२०)-
शोकसंविग्नमानसः = शोकाकुलचित्तः
प्रयोगः -
एवमुक्त्वाऽर्जुनः संख्ये रथोपस्थ उपाविशत्।
विसृज्य सशरं चापं शोकसंविग्नमानसः॥१.४७॥
इति प्रथमोध्यायः। 🙏-
सशरं = शरेण सह
शरः बाणः
प्रयोगः -
एवमुक्त्वाऽर्जुनः संख्ये रथोपस्थ उपाविशत्।
विसृज्य सशरं चापं शोकसंविग्नमानसः॥१.४७॥-